Totakashtakam was composed by Totakacharya, one of the chief disciples of Sri Adi Shankara. It is an octad of verses in praise of the Master. Here is the Totakashtakam lyrics in Hindi तोटकाष्टकं विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे । हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥ १॥ करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् । रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम् ॥ २॥ भवता जनता सुहिता भविता निजबोधविचारण चारुमते । कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम् ॥ ३॥ भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणम् ॥ ४॥ सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता । अतिदीनमिमं परिपालय मा ंभव शंकर देशिक मे शरणम् ॥ ५॥ जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ॥ ६॥ गुरुपुंगव पुंगवकेतन ते समतामयतां नहि कोऽपि सुधीः । शरणागतवत्सल तत्त्वनिधे भव शंकर